ऋषिः - अथर्वा

देवता - ध्रुवः

छन्दः - अनुष्टुप्

स्वरः - ध्रुवोराजा सूक्त

PreviousNext
स्वर सहित मन्त्र

ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वं विश्व॑मि॒दं जग॑त्। ध्रु॒वासः॒ पर्व॑ता इ॒मे ध्रु॒वो राजा॑ वि॒शाम॒यम् ॥

स्वर सहित पद पाठ

ध्रु॒वा । द्यौः । ध्रु॒वा । पृ॒थि॒वी । ध्रु॒वम् । विश्व॑म् । इ॒दम् । जग॑त् । ध्रु॒वास॒ः । पर्व॑ताः । इ॒मे। ध्रु॒वः । राजा॑ । वि॒शाम् । अ॒यम् ॥८८.१॥


स्वर रहित मन्त्र

ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवं विश्वमिदं जगत्। ध्रुवासः पर्वता इमे ध्रुवो राजा विशामयम् ॥


स्वर रहित पद पाठ

ध्रुवा । द्यौः । ध्रुवा । पृथिवी । ध्रुवम् । विश्वम् । इदम् । जगत् । ध्रुवासः । पर्वताः । इमे। ध्रुवः । राजा । विशाम् । अयम् ॥८८.१॥