ऋषिः - अथर्वा

देवता - ध्रुवः

छन्दः - अनुष्टुप्

स्वरः - राज्ञः संवरण सूक्त

PreviousNext
स्वर सहित मन्त्र

इ॒हैवैधि॒ माप॑ च्योष्ठाः॒ पर्व॑त इ॒वावि॑चाचलत्। इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑ धारय ॥

स्वर सहित पद पाठ

इ॒ह । ए॒व । ए॒धि॒ । मा । अप॑ । च्यो॒ष्ठा॒ः । पर्व॑तःऽइव । अवि॑ऽचाचलत् । इन्द्र॑ःऽइव । इ॒ह ।ध्रु॒वः । ति॒ष्ठ॒ । रा॒ष्ट्रम् । ऊं॒ इति॑ । धारय ॥८७.२॥


स्वर रहित मन्त्र

इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलत्। इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय ॥


स्वर रहित पद पाठ

इह । एव । एधि । मा । अप । च्योष्ठाः । पर्वतःऽइव । अविऽचाचलत् । इन्द्रःऽइव । इह ।ध्रुवः । तिष्ठ । राष्ट्रम् । ऊं इति । धारय ॥८७.२॥