ऋषिः - अथर्वा
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
स्वरः - यक्ष्मानाशन सूक्त
व॒र॒णः । वा॒र॒या॒तै॒ । अ॒यम् । दे॒वः। वन॒स्पति॑ः । यक्ष्म॑ः । यः । अ॒स्मिन् । आऽवि॑ष्टः । तम् । ऊं॒ इति॑ । दे॒वाः । अ॒वी॒व॒र॒न् ॥८५.१॥
वरणः । वारयातै । अयम् । देवः। वनस्पतिः । यक्ष्मः । यः । अस्मिन् । आऽविष्टः । तम् । ऊं इति । देवाः । अवीवरन् ॥८५.१॥