ऋषिः - अङ्गिरा

देवता - सूर्यः, चन्द्रः

छन्दः - अनुष्टुप्

स्वरः - भैषज्य सूक्त

PreviousNext
स्वर सहित मन्त्र

अप॑चितः॒ प्र प॑तत सुप॒र्णो व॑स॒तेरि॑व। सूर्यः॑ कृ॒णोतु॑ भेष॒जं च॒न्द्रमा॒ वोऽपो॑च्छतु ॥

स्वर सहित पद पाठ

अप॑ऽचितः । प्र । प॒त॒त॒ । सु॒ऽप॒र्णः । व॒स॒तेःऽइ॑व । सूर्य॑ः । कृ॒णोतु॑ । भे॒ष॒जम् । च॒न्द्रमा॑ः । व॒ः । अप॑ । उ॒च्छ॒तु॒ ॥८३.१॥


स्वर रहित मन्त्र

अपचितः प्र पतत सुपर्णो वसतेरिव। सूर्यः कृणोतु भेषजं चन्द्रमा वोऽपोच्छतु ॥


स्वर रहित पद पाठ

अपऽचितः । प्र । पतत । सुऽपर्णः । वसतेःऽइव । सूर्यः । कृणोतु । भेषजम् । चन्द्रमाः । वः । अप । उच्छतु ॥८३.१॥