ऋषिः - जमदग्नि

देवता - द्यावापथिवी, सूर्यः

छन्दः - पथ्यापङ्क्तिः

स्वरः - कामात्मा सूक्त

PreviousNext
स्वर सहित मन्त्र

यथे॒मे द्यावा॑पृथि॒वी स॒द्यः प॒र्येति॒ सूर्यः॑। ए॒वा पर्ये॑मि ते॒ मनो॒ यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ॥

स्वर सहित पद पाठ

यथा॑ । इ॒मे इति॑ । द्यावा॑पृथि॒वी इति॑ । स॒द्यः । प॒रि॒ऽएति॑ । सूर्य॑ः । ए॒व । परि॑ । ए॒मि॒ । ते॒ । मन॑ः । यथा॑ । माम् । का॒मिनी॑ । अस॑ः । यथा॑ । मत् । न । अप॑ऽगाः ।अस॑ः॥८.३॥


स्वर रहित मन्त्र

यथेमे द्यावापृथिवी सद्यः पर्येति सूर्यः। एवा पर्येमि ते मनो यथा मां कामिन्यसो यथा मन्नापगा असः ॥


स्वर रहित पद पाठ

यथा । इमे इति । द्यावापृथिवी इति । सद्यः । परिऽएति । सूर्यः । एव । परि । एमि । ते । मनः । यथा । माम् । कामिनी । असः । यथा । मत् । न । अपऽगाः ।असः॥८.३॥