ऋषिः - कबन्ध

देवता - सान्तपनाग्निः

छन्दः - अनुष्टुप्

स्वरः - आयुष्य सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॒ग्नेः सां॑तप॒नस्या॒हमायु॑षे प॒दमा र॑भे। अ॑द्धा॒तिर्यस्य॒ पश्य॑ति धू॒ममु॒द्यन्त॑मास्य॒तः ॥

स्वर सहित पद पाठ

अ॒ग्नेः । सा॒म्ऽत॒प॒नस्य॑ । अ॒हम् । आयु॑षे । प॒दम् । आ । र॒भे॒ । अ॒ध्दा॒तिः । यस्य॑ । पश्य॑ति । धू॒मम् । उ॒त्ऽयन्त॑म् । आ॒स्य॒तः ॥७६.२॥


स्वर रहित मन्त्र

अग्नेः सांतपनस्याहमायुषे पदमा रभे। अद्धातिर्यस्य पश्यति धूममुद्यन्तमास्यतः ॥


स्वर रहित पद पाठ

अग्नेः । साम्ऽतपनस्य । अहम् । आयुषे । पदम् । आ । रभे । अध्दातिः । यस्य । पश्यति । धूमम् । उत्ऽयन्तम् । आस्यतः ॥७६.२॥