ऋषिः - कबन्ध

देवता - इन्द्रः

छन्दः - षट्पदा जगती

स्वरः - सपत्नक्षयण सूक्त

PreviousNext
स्वर सहित मन्त्र

एतु॑ ति॒स्रः प॑रा॒वत॒ एतु॒ पञ्च॒ जनाँ॒ अति॑। एतु॑ ति॒स्रोऽति॑ रोच॒ना यतो॒ न पुन॒राय॑ति। श॑श्व॒तीभ्यः॒ समा॑भ्यो॒ याव॒त्सूर्यो॒ अस॑द्दि॒वि ॥

स्वर सहित पद पाठ

एतु॑ । ति॒स्रः । प॒रा॒ऽवत॑ः । एतु॑ । पञ्च॑ । जना॑न् । अति॑ । एतु॑ । ति॒स्रः । अति॑ । रो॒च॒ना । यत॑ः । न । पुन॑ः । आ॒ऽअय॑ति । श॒श्व॒तीभ्य॑ः । समा॑भ्यः । याव॑त् । सूर्य॑ः । अस॑त् । दि॒वि ॥७५.३॥


स्वर रहित मन्त्र

एतु तिस्रः परावत एतु पञ्च जनाँ अति। एतु तिस्रोऽति रोचना यतो न पुनरायति। शश्वतीभ्यः समाभ्यो यावत्सूर्यो असद्दिवि ॥


स्वर रहित पद पाठ

एतु । तिस्रः । पराऽवतः । एतु । पञ्च । जनान् । अति । एतु । तिस्रः । अति । रोचना । यतः । न । पुनः । आऽअयति । शश्वतीभ्यः । समाभ्यः । यावत् । सूर्यः । असत् । दिवि ॥७५.३॥