ऋषिः - कबन्ध

देवता - इन्द्रः

छन्दः - अनुष्टुप्

स्वरः - सपत्नक्षयण सूक्त

PreviousNext
स्वर सहित मन्त्र

प॑र॒मां तं प॑रा॒वत॒मिन्द्रो॑ नुदतु वृत्र॒हा। यतो॒ न पुन॒राय॑ति शश्व॒तीभ्यः॒ समा॑भ्यः ॥

स्वर सहित पद पाठ

प॒र॒माम् । तम् । प॒रा॒ऽवत॑म् । इन्द्र॑ः । नु॒द॒तु॒ । वृ॒त्र॒ऽहा । यत॑ः । न । पुन॑ः । आ॒ऽअय॑ति । श॒श्व॒तीभ्य॑ः । समा॑भ्यः ॥७५.२॥


स्वर रहित मन्त्र

परमां तं परावतमिन्द्रो नुदतु वृत्रहा। यतो न पुनरायति शश्वतीभ्यः समाभ्यः ॥


स्वर रहित पद पाठ

परमाम् । तम् । पराऽवतम् । इन्द्रः । नुदतु । वृत्रऽहा । यतः । न । पुनः । आऽअयति । शश्वतीभ्यः । समाभ्यः ॥७५.२॥