ऋषिः - अथर्वा
देवता - सामंनस्यम्, नाना देवताः, त्रिणामा
छन्दः - अनुष्टुप्
स्वरः - सांमनस्य सूक्त
सम् । व॒ः । पृ॒च्य॒न्ता॒म् । त॒न्व᳡ः । सम् । मनां॑सि । सम् । ऊं॒ इति॑ । व्र॒ता । सम् । व॒ः । अ॒यम् । ब्रह्म॑णः । पति॑ः । भग॑ः । सम् । व॒ः । अ॒जी॒ग॒म॒त् ॥७४.१॥
सम् । वः । पृच्यन्ताम् । तन्व᳡ः । सम् । मनांसि । सम् । ऊं इति । व्रता । सम् । वः । अयम् । ब्रह्मणः । पतिः । भगः । सम् । वः । अजीगमत् ॥७४.१॥