ऋषिः - अथर्वा

देवता - सामंनस्यम्, वरुणः, सोमः, अग्निः, बृहस्पतिः, वसुगणः

छन्दः - त्रिष्टुप्

स्वरः - सांमनस्य सूक्त

PreviousNext
स्वर सहित मन्त्र

यो वः॒ शुष्मो॒ हृद॑येष्व॒न्तराकू॑ति॒र्या वो॒ मन॑सि॒ प्रवि॑ष्टा। तान्त्सी॑वयामि ह॒विषा॑ घृ॒तेन॒ मयि॑ सजाता र॒मति॑र्वो अस्तु ॥

स्वर सहित पद पाठ

यः । व॒ः । शुष्म॑ः । हृद॑येषु । अ॒न्तः । आऽकू॑तिः । या । व॒ः । मन॑सि । प्रऽवि॑ष्टा । तान् । सी॒व॒या॒मि॒ । ह॒विषा॑ । घृ॒तेन॑ । मयि॑ । स॒ऽजा॒ता॒ः । र॒मति॑ः । व॒ः । अ॒स्तु॒ ॥७३.२॥


स्वर रहित मन्त्र

यो वः शुष्मो हृदयेष्वन्तराकूतिर्या वो मनसि प्रविष्टा। तान्त्सीवयामि हविषा घृतेन मयि सजाता रमतिर्वो अस्तु ॥


स्वर रहित पद पाठ

यः । वः । शुष्मः । हृदयेषु । अन्तः । आऽकूतिः । या । वः । मनसि । प्रऽविष्टा । तान् । सीवयामि । हविषा । घृतेन । मयि । सऽजाताः । रमतिः । वः । अस्तु ॥७३.२॥