ऋषिः - अथर्वा

देवता - सामंनस्यम्, वरुणः, सोमः, अग्निः, बृहस्पतिः, वसुगणः

छन्दः - भुरिगनुष्टुप्

स्वरः - सांमनस्य सूक्त

PreviousNext
स्वर सहित मन्त्र

एह या॑तु॒ वरु॑णः॒ सोमो॑ अ॒ग्निर्बृह॒स्पति॒र्वसु॑भि॒रेह या॑तु। अ॒स्य श्रिय॑मुप॒संया॑त॒ सर्व॑ उ॒ग्रस्य॑ चे॒त्तुः संम॑नसः सजाताः ॥

स्वर सहित पद पाठ

आ । इ॒ह । या॒तु॒ । वरु॑णः । सोम॑ः । अ॒ग्निः । बृह॒स्पति॑ः । असु॑ऽभिः । आ । इ॒ह । या॒तु॒ । अ॒स्य । श्रिय॑म् । उ॒प॒ऽसंया॑त । सर्वे॑ । उ॒ग्रस्य॑ । चे॒त्तुः । सम्ऽम॑नसः । स॒ऽजा॒ता॒ः ॥७३.१॥


स्वर रहित मन्त्र

एह यातु वरुणः सोमो अग्निर्बृहस्पतिर्वसुभिरेह यातु। अस्य श्रियमुपसंयात सर्व उग्रस्य चेत्तुः संमनसः सजाताः ॥


स्वर रहित पद पाठ

आ । इह । यातु । वरुणः । सोमः । अग्निः । बृहस्पतिः । असुऽभिः । आ । इह । यातु । अस्य । श्रियम् । उपऽसंयात । सर्वे । उग्रस्य । चेत्तुः । सम्ऽमनसः । सऽजाताः ॥७३.१॥