ऋषिः - अथर्वा
देवता - सविता, आदित्यगणः, रुद्रगणः, वसुगणः
छन्दः - चतुष्पदा पुरोविराडतिशाक्वरगर्भा जगती
स्वरः - वपन सूक्त
आ । अ॒यम् । अ॒ग॒न् । स॒वि॒ता । क्षु॒रेण॑ । उ॒ष्णेन॑ । वा॒यो॒ इति॑ ।उ॒द॒केन॑ । आ । इ॒हि॒ । आ॒दि॒त्याः। रु॒द्राः । वस॑वः । उ॒न्द॒न्तु॒ । सऽचे॑तसः। सोम॑स्य । राज्ञ॑ः । व॒प॒त॒ । प्रऽचे॑तसः ॥६८.१॥
आ । अयम् । अगन् । सविता । क्षुरेण । उष्णेन । वायो इति ।उदकेन । आ । इहि । आदित्याः। रुद्राः । वसवः । उन्दन्तु । सऽचेतसः। सोमस्य । राज्ञः । वपत । प्रऽचेतसः ॥६८.१॥