ऋषिः - अथर्वा

देवता - चन्द्रः, इन्द्रः

छन्दः - अनुष्टुप्

स्वरः - शत्रुनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

परि॒ वर्त्मा॑नि स॒र्वत॒ इन्द्रः॑ पू॒षा च॑ सस्रतुः। मुह्य॑न्त्व॒द्यामूः सेना॑ अमित्राणां परस्त॒राम् ॥

स्वर सहित पद पाठ

परि॑ । वर्त्मा॑नि । स॒र्वत॑ः । इन्द्र॑ः । पू॒षा । च॒ । स॒स्र॒तु॒ः । मुह्य॑न्तु । अ॒द्य । अ॒मूः । सेना॑ः। अ॒मित्रा॑णाम् । प॒र॒ःऽत॒राम् ॥६७.१॥


स्वर रहित मन्त्र

परि वर्त्मानि सर्वत इन्द्रः पूषा च सस्रतुः। मुह्यन्त्वद्यामूः सेना अमित्राणां परस्तराम् ॥


स्वर रहित पद पाठ

परि । वर्त्मानि । सर्वतः । इन्द्रः । पूषा । च । सस्रतुः । मुह्यन्तु । अद्य । अमूः । सेनाः। अमित्राणाम् । परःऽतराम् ॥६७.१॥