ऋषिः - अथर्वा

देवता - चन्द्रः, इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - शत्रुनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

निर्ह॑स्तः॒ शत्रु॑रभि॒दास॑न्नस्तु॒ ये सेना॑भि॒र्युध॑मा॒यन्त्य॒स्मान्। सम॑र्पयेन्द्र मह॒ता व॒धेन॒ द्रात्वे॑षामघहा॒रो विवि॑द्धः ॥

स्वर सहित पद पाठ

निःऽह॑स्तः । शत्रु॑ः । अ॒भि॒ऽदास॑न् । अ॒स्तु॒ । ये । सेना॑भिः । युध॑म् । आ॒ऽयन्ति॑ । अ॒स्मान् । सम् । अ॒र्प॒य॒ । इ॒न्द्र॒ । म॒ह॒ता । व॒धेन॑ । द्रातु॑ । ए॒षा॒म् । अ॒घ॒ऽहा॒रः । विऽवि॑ध्दः ॥६६.१॥


स्वर रहित मन्त्र

निर्हस्तः शत्रुरभिदासन्नस्तु ये सेनाभिर्युधमायन्त्यस्मान्। समर्पयेन्द्र महता वधेन द्रात्वेषामघहारो विविद्धः ॥


स्वर रहित पद पाठ

निःऽहस्तः । शत्रुः । अभिऽदासन् । अस्तु । ये । सेनाभिः । युधम् । आऽयन्ति । अस्मान् । सम् । अर्पय । इन्द्र । महता । वधेन । द्रातु । एषाम् । अघऽहारः । विऽविध्दः ॥६६.१॥