ऋषिः - अथर्वा

देवता - इन्द्रः, पराशरः

छन्दः - अनुष्टुप्

स्वरः - शत्रुनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

निर्ह॑स्तेभ्यो नैर्ह॒स्तं यं दे॑वाः॒ शरु॒मस्य॑थ। वृ॒श्चामि॒ शत्रू॑णां बा॒हून॒नेन॑ ह॒विषा॒ऽहम् ॥

स्वर सहित पद पाठ

निःऽह॑स्तेभ्यः । नै॒ःऽह॒स्तम् । यम् । दे॒वा॒ः । शरु॑म् । अस्य॑थ । वृ॒श्चामि॑ । शत्रू॑णाम् । बा॒हून् । अ॒नेन॑ । ह॒विषा॑ । अ॒हम् ॥६५.२॥


स्वर रहित मन्त्र

निर्हस्तेभ्यो नैर्हस्तं यं देवाः शरुमस्यथ। वृश्चामि शत्रूणां बाहूननेन हविषाऽहम् ॥


स्वर रहित पद पाठ

निःऽहस्तेभ्यः । नैःऽहस्तम् । यम् । देवाः । शरुम् । अस्यथ । वृश्चामि । शत्रूणाम् । बाहून् । अनेन । हविषा । अहम् ॥६५.२॥