ऋषिः - अथर्वा

देवता - विश्वे देवाः, मनः

छन्दः - अनुष्टुप्

स्वरः - सांमनस्य सूक्त

PreviousNext
स्वर सहित मन्त्र

स॑मा॒नी व॒ आकू॑तिः समा॒ना हृद॑यानि वः। स॑मा॒नम॑स्तु वो॒ मनो॒ यथा॑ वः॒ सुस॒हास॑ति ॥

स्वर सहित पद पाठ

स॒मा॒नी । व॒ः । आऽकू॑तिः । स॒मा॒ना । हृद॑यानि । व॒ः । स॒मा॒नम् । अ॒स्तु॒ । वः । मन॑ः । यथा॑ । व॒ः । सुऽस॑ह । अस॑ति॥६४.३॥


स्वर रहित मन्त्र

समानी व आकूतिः समाना हृदयानि वः। समानमस्तु वो मनो यथा वः सुसहासति ॥


स्वर रहित पद पाठ

समानी । वः । आऽकूतिः । समाना । हृदयानि । वः । समानम् । अस्तु । वः । मनः । यथा । वः । सुऽसह । असति॥६४.३॥