ऋषिः - अथर्वा
देवता - विश्वे देवाः, मनः
छन्दः - अनुष्टुप्
स्वरः - सांमनस्य सूक्त
सम् । जा॒नी॒ध्व॒म् । सम् । पृ॒च्य॒ध्व॒म् । सम् । व॒ः । मनां॑सि । जा॒न॒ता॒म् । दे॒वाः । भा॒गम् । यथा॑ । पूर्वे॑ । स॒म्ऽजा॒ना॒नाः । उ॒प॒ऽआस॑ते ॥६४.१॥
सम् । जानीध्वम् । सम् । पृच्यध्वम् । सम् । वः । मनांसि । जानताम् । देवाः । भागम् । यथा । पूर्वे । सम्ऽजानानाः । उपऽआसते ॥६४.१॥