ऋषिः - अथर्वा
देवता - रुद्रः
छन्दः - त्रिष्टुप्
स्वरः - पावमान सूक्त
वै॒श्वा॒न॒रः । र॒श्मिऽभिः॑ । न॒ः । पु॒ना॒तु॒ । वात॑ः । प्रा॒णेन॑ । इ॒षि॒रः । नभ॑ःऽभिः । द्यावा॑पृथि॒वी इति॑ । पय॑सा । पय॑स्वती॒ इति॑ । ऋ॒तव॑री॒ इत्यृ॒तऽव॑री । य॒ज्ञिये॒ इति॑ । न॒ः । पु॒नी॒ता॒म् ॥६२.१॥
वैश्वानरः । रश्मिऽभिः । नः । पुनातु । वातः । प्राणेन । इषिरः । नभःऽभिः । द्यावापृथिवी इति । पयसा । पयस्वती इति । ऋतवरी इत्यृतऽवरी । यज्ञिये इति । नः । पुनीताम् ॥६२.१॥