atharvaveda/6/58/1

य॒शसं॒ मेन्द्रो॑ म॒घवा॑न्कृणोतु य॒शसं॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे। य॒शसं॑ मा दे॒वः स॑वि॒ता कृ॑णोतु प्रि॒यो दा॒तुर्दक्षि॑णाया इ॒ह स्या॑म् ॥

य॒शस॑म् । मा॒ । इन्द्र॑: । म॒घऽवा॑न् । कृ॒णो॒तु॒ । य॒शस॑म् । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । इ॒मे इति॑ । य॒शस॑म् । मा॒ । दे॒व:। स॒वि॒ता । कृ॒णो॒तु॒ । प्रि॒य: । दा॒तु: । दक्षि॑णाया: । इ॒ह । स्या॒म् ॥५८.१॥

ऋषिः - अथर्वा

देवता - इन्द्रः, द्यावापृथिवी, सविता

छन्दः - जगती

स्वरः - यशः प्राप्ति सूक्त

स्वर सहित मन्त्र

य॒शसं॒ मेन्द्रो॑ म॒घवा॑न्कृणोतु य॒शसं॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे। य॒शसं॑ मा दे॒वः स॑वि॒ता कृ॑णोतु प्रि॒यो दा॒तुर्दक्षि॑णाया इ॒ह स्या॑म् ॥

स्वर सहित पद पाठ

य॒शस॑म् । मा॒ । इन्द्र॑: । म॒घऽवा॑न् । कृ॒णो॒तु॒ । य॒शस॑म् । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । इ॒मे इति॑ । य॒शस॑म् । मा॒ । दे॒व:। स॒वि॒ता । कृ॒णो॒तु॒ । प्रि॒य: । दा॒तु: । दक्षि॑णाया: । इ॒ह । स्या॒म् ॥५८.१॥


स्वर रहित मन्त्र

यशसं मेन्द्रो मघवान्कृणोतु यशसं द्यावापृथिवी उभे इमे। यशसं मा देवः सविता कृणोतु प्रियो दातुर्दक्षिणाया इह स्याम् ॥


स्वर रहित पद पाठ

यशसम् । मा । इन्द्र: । मघऽवान् । कृणोतु । यशसम् । द्यावापृथिवी इति । उभे इति । इमे इति । यशसम् । मा । देव:। सविता । कृणोतु । प्रिय: । दातु: । दक्षिणाया: । इह । स्याम् ॥५८.१॥