ऋषिः - शन्ताति

देवता - रुद्रः

छन्दः - अनुष्टुप्

स्वरः - सर्परक्षण सूक्त

PreviousNext
स्वर सहित मन्त्र

नमो॑ऽस्त्वसि॒ताय॒ नम॒स्तिर॑श्चिराजये। स्व॒जाय॑ ब॒भ्रवे॒ नमो॒ नमो॑ देवज॒नेभ्यः॑ ॥

स्वर सहित पद पाठ

नम॑ः । अ॒स्तु॒ । अ॒सि॒ताय॑ । नम॑ः । तिर॑श्चिऽराजये । स्व॒जाय॑ । ब॒भ्रवे॑ । नम॑ः । नम॑ः । दे॒व॒ऽज॒नेभ्य॑ः ॥५६.२॥


स्वर रहित मन्त्र

नमोऽस्त्वसिताय नमस्तिरश्चिराजये। स्वजाय बभ्रवे नमो नमो देवजनेभ्यः ॥


स्वर रहित पद पाठ

नमः । अस्तु । असिताय । नमः । तिरश्चिऽराजये । स्वजाय । बभ्रवे । नमः । नमः । देवऽजनेभ्यः ॥५६.२॥