ऋषिः - ब्रह्मा

देवता - रुद्रः

छन्दः - त्रिष्टुप्

स्वरः - सौम्नस्य सूक्त

PreviousNext
स्वर सहित मन्त्र

ग्री॒ष्मो हे॑म॒न्तः शिशि॑रो वस॒न्तः श॒रद्व॒र्षाः स्वि॒ते नो॑ दधात। आ नो॒ गोषु॒ भज॒ता प्र॒जायां॑ निवा॒त इद्वः॑ शर॒णे स्या॑म ॥

स्वर सहित पद पाठ

ग्री॒ष्मः । हे॒म॒न्तः । शिशि॑रः । व॒स॒न्तः । श॒रत् । व॒र्षाः । सु॒ऽइ॒ते । न॒ः । द॒धा॒त॒ । आ । न॒ः । गोषु॑ । भज॑त । आ । प्र॒ऽजाया॑म् । नि॒ऽवा॒ते । इत् । व॒ः । श॒र॒णे । स्या॒म॒ ॥५५.२॥


स्वर रहित मन्त्र

ग्रीष्मो हेमन्तः शिशिरो वसन्तः शरद्वर्षाः स्विते नो दधात। आ नो गोषु भजता प्रजायां निवात इद्वः शरणे स्याम ॥


स्वर रहित पद पाठ

ग्रीष्मः । हेमन्तः । शिशिरः । वसन्तः । शरत् । वर्षाः । सुऽइते । नः । दधात । आ । नः । गोषु । भजत । आ । प्रऽजायाम् । निऽवाते । इत् । वः । शरणे । स्याम ॥५५.२॥