atharvaveda/6/54/2

अ॒स्मै क्ष॒त्रम॑ग्नीषोमाव॒स्मै धा॑रयतं र॒यिम्। इ॒मं रा॒ष्ट्रस्या॑भीव॒र्गे कृ॑णु॒तं यु॒ज उत्त॑रम् ॥

अ॒स्मै । क्ष॒त्रम् । अ॒ग्नी॒षो॒मौ॒ । अ॒स्मै । धा॒र॒य॒त॒म् । र॒यिम् । इ॒मम् । रा॒ष्ट्रस्य॑ । अ॒भि॒ऽव॒र्गे । कृ॒णु॒तम् । यु॒जे। उत्ऽत॑रम् ॥५४.२॥

ऋषिः - ब्रह्मा

देवता - अग्नीषोमौ

छन्दः - अनुष्टुप्

स्वरः - अमित्रदम्भन सूक्त

स्वर सहित मन्त्र

अ॒स्मै क्ष॒त्रम॑ग्नीषोमाव॒स्मै धा॑रयतं र॒यिम्। इ॒मं रा॒ष्ट्रस्या॑भीव॒र्गे कृ॑णु॒तं यु॒ज उत्त॑रम् ॥

स्वर सहित पद पाठ

अ॒स्मै । क्ष॒त्रम् । अ॒ग्नी॒षो॒मौ॒ । अ॒स्मै । धा॒र॒य॒त॒म् । र॒यिम् । इ॒मम् । रा॒ष्ट्रस्य॑ । अ॒भि॒ऽव॒र्गे । कृ॒णु॒तम् । यु॒जे। उत्ऽत॑रम् ॥५४.२॥


स्वर रहित मन्त्र

अस्मै क्षत्रमग्नीषोमावस्मै धारयतं रयिम्। इमं राष्ट्रस्याभीवर्गे कृणुतं युज उत्तरम् ॥


स्वर रहित पद पाठ

अस्मै । क्षत्रम् । अग्नीषोमौ । अस्मै । धारयतम् । रयिम् । इमम् । राष्ट्रस्य । अभिऽवर्गे । कृणुतम् । युजे। उत्ऽतरम् ॥५४.२॥