ऋषिः - बृहच्छुक्र

देवता - वैश्वानरः

छन्दः - त्रिष्टुप्

स्वरः - सर्वतोरक्षण सूक्त

PreviousNext
स्वर सहित मन्त्र

पुनः॑ प्रा॒णः पुन॑रा॒त्मा न॒ ऐतु॒ पुन॒श्चक्षुः॒ पुन॒रसु॑र्न॒ ऐतु॑। वै॑श्वान॒रो नो॒ अद॑ब्धस्तनू॒पा अ॒न्तस्ति॑ष्ठाति दुरि॒तानि॒ विश्वा॑ ॥

स्वर सहित पद पाठ

पुन॑ः । प्रा॒णः। पुन॑ः । आ॒त्मा । न॒ः । आ । ए॒तु॒ । पुन॑ः । चक्षु॑ः । पुन॑ः । असु॑ः । न॒ः । आ । ए॒तु॒ । वै॒श्वा॒न॒रः । न॒ः । अद॑ब्धः । त॒नू॒ऽपाः । अ॒न्तः । ति॒ष्ठा॒ति॒ ।दु॒ःऽइ॒तानि॑ । विश्वा॑ ॥५३.२॥


स्वर रहित मन्त्र

पुनः प्राणः पुनरात्मा न ऐतु पुनश्चक्षुः पुनरसुर्न ऐतु। वैश्वानरो नो अदब्धस्तनूपा अन्तस्तिष्ठाति दुरितानि विश्वा ॥


स्वर रहित पद पाठ

पुनः । प्राणः। पुनः । आत्मा । नः । आ । एतु । पुनः । चक्षुः । पुनः । असुः । नः । आ । एतु । वैश्वानरः । नः । अदब्धः । तनूऽपाः । अन्तः । तिष्ठाति ।दुःऽइतानि । विश्वा ॥५३.२॥