atharvaveda/6/53/1

द्यौश्च॑ म इ॒दं पृ॑थि॒वी च॒ प्रचे॑तसौ शु॒क्रो बृ॒हन्दक्षि॑णया पिपर्तु। अनु॑ स्व॒धा चि॑कितां॒ सोमो॑ अ॒ग्निर्वा॒युर्नः॑ पातु सवि॒ता भग॑श्च ॥

द्यौ: । च॒ । मे॒ । इ॒दम् । पृ॒थि॒वी । च॒ । प्रऽचे॑तसौ । शु॒क्र: । बृ॒हन् । दक्षि॑णया । पि॒प॒र्तु॒ । अनु॑ । स्व॒धा । चि॒कि॒ता॒म् । सोम॑: । अ॒ग्नि: । वा॒यु: । न॒: । पा॒तु॒ । स॒वि॒ता । भग॑: । च॒ ॥५३.१॥

ऋषिः - बृहच्छुक्र

देवता - द्यौः, पृथिवी, शुक्रः, सोमः, अग्निः, वायुः, सविता

छन्दः - जगती

स्वरः - सर्वतोरक्षण सूक्त

स्वर सहित मन्त्र

द्यौश्च॑ म इ॒दं पृ॑थि॒वी च॒ प्रचे॑तसौ शु॒क्रो बृ॒हन्दक्षि॑णया पिपर्तु। अनु॑ स्व॒धा चि॑कितां॒ सोमो॑ अ॒ग्निर्वा॒युर्नः॑ पातु सवि॒ता भग॑श्च ॥

स्वर सहित पद पाठ

द्यौ: । च॒ । मे॒ । इ॒दम् । पृ॒थि॒वी । च॒ । प्रऽचे॑तसौ । शु॒क्र: । बृ॒हन् । दक्षि॑णया । पि॒प॒र्तु॒ । अनु॑ । स्व॒धा । चि॒कि॒ता॒म् । सोम॑: । अ॒ग्नि: । वा॒यु: । न॒: । पा॒तु॒ । स॒वि॒ता । भग॑: । च॒ ॥५३.१॥


स्वर रहित मन्त्र

द्यौश्च म इदं पृथिवी च प्रचेतसौ शुक्रो बृहन्दक्षिणया पिपर्तु। अनु स्वधा चिकितां सोमो अग्निर्वायुर्नः पातु सविता भगश्च ॥


स्वर रहित पद पाठ

द्यौ: । च । मे । इदम् । पृथिवी । च । प्रऽचेतसौ । शुक्र: । बृहन् । दक्षिणया । पिपर्तु । अनु । स्वधा । चिकिताम् । सोम: । अग्नि: । वायु: । न: । पातु । सविता । भग: । च ॥५३.१॥