atharvaveda/6/5/2
ऋषिः - अथर्वा
देवता - इन्द्रः
छन्दः - भुरिगनुष्टुप्
स्वरः - वर्चः प्राप्ति सूक्त
इन्द्र॑ । इ॒मम् । प्र॒ऽत॒रम् । कृ॒धि॒ । स॒ऽजा॒ताना॑म् । अ॒स॒त् । व॒शी । राय: । पोषे॑ण । सम् । सृ॒ज॒। जीवात॑वे । जरसे॑ । नय ॥५.२॥
इन्द्र । इमम् । प्रऽतरम् । कृधि । सऽजातानाम् । असत् । वशी । राय: । पोषेण । सम् । सृज। जीवातवे । जरसे । नय ॥५.२॥