ऋषिः - गार्ग्य
देवता - अग्निः
छन्दः - जगती
स्वरः - अग्निस्तवन सूक्त
मे॒षःऽइ॑व । वै । सम् । च॒ । वि । च॒ । उ॒रु । अ॒च्य॒से॒ । यत् । उ॒त्त॒र॒ऽद्रौ । उप॑रः । च॒ । खाद॑तः । शी॒र्ष्णाः । शिर॑ः । अप्स॑सा । अप्स॑ः । अ॒र्दय॑न् । अं॒शून् । ब॒भ॒स्ति॒ । हरि॑तेभिः । आ॒सऽभि॑ः॥४९.२॥
मेषःऽइव । वै । सम् । च । वि । च । उरु । अच्यसे । यत् । उत्तरऽद्रौ । उपरः । च । खादतः । शीर्ष्णाः । शिरः । अप्ससा । अप्सः । अर्दयन् । अंशून् । बभस्ति । हरितेभिः । आसऽभिः॥४९.२॥