atharvaveda/6/47/2

विश्वे॑ दे॒वा म॒रुत॒ इन्द्रो॑ अ॒स्मान॒स्मिन्द्वि॒तीये॒ सव॑ने॒ न ज॑ह्युः। आयु॑ष्मन्तः प्रि॒यमे॑षां॒ वद॑न्तो व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥

विश्वे॑ । दे॒वा:। म॒रुत॑: । इन्द्र॑: । अ॒स्मान् । अ॒स्मिन् । द्वि॒तीये॑ । सव॑ने ।न । ज॒ह्यु॒: । आयु॑ष्मन्त: । प्रि॒यम् । ए॒षा॒म् । वद॑न्त: । व॒यम् । दे॒वाना॑म् । सु॒ऽम॒तौ । स्या॒म॒ ॥४७.२॥

ऋषिः - प्रचेता

देवता - विश्वे देवाः

छन्दः - त्रिष्टुप्

स्वरः - दीर्घायुप्राप्ति सूक्त

स्वर सहित मन्त्र

विश्वे॑ दे॒वा म॒रुत॒ इन्द्रो॑ अ॒स्मान॒स्मिन्द्वि॒तीये॒ सव॑ने॒ न ज॑ह्युः। आयु॑ष्मन्तः प्रि॒यमे॑षां॒ वद॑न्तो व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥

स्वर सहित पद पाठ

विश्वे॑ । दे॒वा:। म॒रुत॑: । इन्द्र॑: । अ॒स्मान् । अ॒स्मिन् । द्वि॒तीये॑ । सव॑ने ।न । ज॒ह्यु॒: । आयु॑ष्मन्त: । प्रि॒यम् । ए॒षा॒म् । वद॑न्त: । व॒यम् । दे॒वाना॑म् । सु॒ऽम॒तौ । स्या॒म॒ ॥४७.२॥


स्वर रहित मन्त्र

विश्वे देवा मरुत इन्द्रो अस्मानस्मिन्द्वितीये सवने न जह्युः। आयुष्मन्तः प्रियमेषां वदन्तो वयं देवानां सुमतौ स्याम ॥


स्वर रहित पद पाठ

विश्वे । देवा:। मरुत: । इन्द्र: । अस्मान् । अस्मिन् । द्वितीये । सवने ।न । जह्यु: । आयुष्मन्त: । प्रियम् । एषाम् । वदन्त: । वयम् । देवानाम् । सुऽमतौ । स्याम ॥४७.२॥