ऋषिः - अथर्वा

देवता - अंशः, भगः, वरुणः, मित्रम्, अर्यमा, अदितिः, मरुद्गणः

छन्दः - संस्तारपङ्क्तिः

स्वरः - आत्मगोपन सूक्त

PreviousNext
स्वर सहित मन्त्र

अंशो॒ भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मादि॑तिः॒ पान्तु॑ म॒रुतः॑। अप॒ तस्य॒ द्वेषो॑ गमेदभि॒ह्रुतो॑ यावय॒च्छत्रु॒मन्ति॑तम् ॥

स्वर सहित पद पाठ

अंश॑ः । भग॑ः । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । अदि॑तिः । पान्तु॑ । म॒रुत॑ः । अप॑ । तस्य॑ । द्वेष॑ः । ग॒मे॒त् । अ॒भि॒ऽह्रुत॑ः । य॒व॒य॒त् । शत्रु॑म् । अन्ति॑तम् ॥४.२॥


स्वर रहित मन्त्र

अंशो भगो वरुणो मित्रो अर्यमादितिः पान्तु मरुतः। अप तस्य द्वेषो गमेदभिह्रुतो यावयच्छत्रुमन्तितम् ॥


स्वर रहित पद पाठ

अंशः । भगः । वरुणः । मित्रः । अर्यमा । अदितिः । पान्तु । मरुतः । अप । तस्य । द्वेषः । गमेत् । अभिऽह्रुतः । यवयत् । शत्रुम् । अन्तितम् ॥४.२॥