ऋषिः - चातन

देवता - अग्निः

छन्दः - गायत्री

स्वरः - शत्रुनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

यो रक्षां॑सि नि॒जूर्व॑त्य॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॑। स नः॑ पर्ष॒दति॒ द्विषः॑ ॥

स्वर सहित पद पाठ

यः । रक्षां॑सि । नि॒ऽजूर्व॑ति । अ॒ग्निः । ति॒ग्मेन॑ । शो॒चिषा॑ । सः। न॒ः । प॒र्ष॒त् । अति॑ । द्विष॑ः ॥३४.२॥


स्वर रहित मन्त्र

यो रक्षांसि निजूर्वत्यग्निस्तिग्मेन शोचिषा। स नः पर्षदति द्विषः ॥


स्वर रहित पद पाठ

यः । रक्षांसि । निऽजूर्वति । अग्निः । तिग्मेन । शोचिषा । सः। नः । पर्षत् । अति । द्विषः ॥३४.२॥