ऋषिः - जाटिकायन

देवता - इन्द्रः

छन्दः - गायत्री

स्वरः - इन्द्रस्तव सूक्त

PreviousNext
स्वर सहित मन्त्र

स नो॑ ददातु॒ तां र॒यिमु॒रुं पि॒शङ्ग॑संदृशम्। इन्द्रः॒ पति॑स्तु॒विष्ट॑मो॒ जने॒ष्वा ॥

स्वर सहित पद पाठ

सः । न॒ः । द॒दा॒तु॒ । ताम् । र॒यिम् । उ॒रुम् । पि॒शङ्ग॑ऽसंदृशम् । इन्द्र॑ः। पति॑ः । तु॒विऽत॑मः । जने॑षु । आ ॥३३.३॥


स्वर रहित मन्त्र

स नो ददातु तां रयिमुरुं पिशङ्गसंदृशम्। इन्द्रः पतिस्तुविष्टमो जनेष्वा ॥


स्वर रहित पद पाठ

सः । नः । ददातु । ताम् । रयिम् । उरुम् । पिशङ्गऽसंदृशम् । इन्द्रः। पतिः । तुविऽतमः । जनेषु । आ ॥३३.३॥