ऋषिः - अथर्वा
देवता - मित्रावरुणौ
छन्दः - त्रिष्टुप्
स्वरः - यातुधानक्षयण सूक्त
अभ॑यम् । मि॒त्रा॒व॒रु॒णौ॒ । इ॒ह । अ॒स्तु॒ । न॒ः । अ॒र्चिषा॑ । अ॒त्त्रिण॑ः । नु॒द॒त॒म् । प्र॒तीच॑ः । मा । ज्ञा॒तार॑म् । मा । प्र॒ति॒ऽस्थाम् । वि॒द॒न्त॒ । मि॒थः । वि॒ऽघ्ना॒नाः । उप॑ । य॒न्तु॒ । मृ॒त्युम् ॥३२.३॥
अभयम् । मित्रावरुणौ । इह । अस्तु । नः । अर्चिषा । अत्त्रिणः । नुदतम् । प्रतीचः । मा । ज्ञातारम् । मा । प्रतिऽस्थाम् । विदन्त । मिथः । विऽघ्नानाः । उप । यन्तु । मृत्युम् ॥३२.३॥