ऋषिः - चातन

देवता - रुद्रः

छन्दः - प्रस्तारपङ्क्तिः

स्वरः - यातुधानक्षयण सूक्त

PreviousNext
स्वर सहित मन्त्र

रु॒द्रो वो॑ ग्री॒वा अश॑रैत्पिशाचाः पृ॑ष्टीर्वोऽपि॑ शृणातु यातुधानाः। वी॒रुद्वो॑ वि॒श्वतो॑वीर्या य॒मेन॒ सम॑जीगमत् ॥

स्वर सहित पद पाठ

रु॒द्रः । व॒ः । ग्री॒वाः । अश॑रैत् । पि॒शा॒चा॒ः । पृ॒ष्टीः । व॒ः । अपि॑ । शृ॒णा॒तु॒ । या॒तु॒ऽधा॒ना॒ः। वी॒रुत् । व॒ः। वि॒श्वत॑ःऽवीर्या । य॒मेन॑ । सम् । अ॒जी॒ग॒म॒त् ॥३२.२॥


स्वर रहित मन्त्र

रुद्रो वो ग्रीवा अशरैत्पिशाचाः पृष्टीर्वोऽपि शृणातु यातुधानाः। वीरुद्वो विश्वतोवीर्या यमेन समजीगमत् ॥


स्वर रहित पद पाठ

रुद्रः । वः । ग्रीवाः । अशरैत् । पिशाचाः । पृष्टीः । वः । अपि । शृणातु । यातुऽधानाः। वीरुत् । वः। विश्वतःऽवीर्या । यमेन । सम् । अजीगमत् ॥३२.२॥