ऋषिः - उपरिबभ्रव

देवता - गौः

छन्दः - गायत्री

स्वरः - गौ सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॒न्तश्च॑रति रोच॒ना अ॒स्य प्रा॒णाद॑पान॒तः। व्यख्यन्महि॒षः स्वः ॥

स्वर सहित पद पाठ

अ॒न्तः । च॒र॒ति॒ । रो॒च॒ना । अ॒स्य । प्रा॒णात् । अ॒पा॒न॒तः । वि । अ॒ख्य॒त् । म॒हि॒षः । स्व᳡ः ॥३१.२॥


स्वर रहित मन्त्र

अन्तश्चरति रोचना अस्य प्राणादपानतः। व्यख्यन्महिषः स्वः ॥


स्वर रहित पद पाठ

अन्तः । चरति । रोचना । अस्य । प्राणात् । अपानतः । वि । अख्यत् । महिषः । स्व᳡ः ॥३१.२॥