ऋषिः - उपरिबभ्रव

देवता - शमी

छन्दः - जगती

स्वरः - पापशमन सूक्त

PreviousNext
स्वर सहित मन्त्र

दे॒वा इ॒मं मधु॑ना॒ संयु॑तं॒ यवं॒ सर॑स्वत्या॒मधि॑ म॒णाव॑चर्कृषुः। इन्द्र॑ आसी॒त्सीर॑पतिः श॒तक्र॑तुः की॒नाशा॑ आसन्म॒रुतः॑ सु॒दान॑वः ॥

स्वर सहित पद पाठ

दे॒वाः। इ॒मम् । मधु॑ना । सऽयु॑तम् । यव॑म् । सर॑स्वत्याम् । अधि॑ । म॒णौ। अ॒च॒र्कृ॒षु॒ः । इन्द्र॑ः । आ॒सी॒त् । सीर॑ऽपतिः । श॒ऽक्र॑तुः । की॒नाशा॑ः । आ॒स॒न् । म॒रुत॑ः । सु॒ऽदान॑वः ॥३०.१॥


स्वर रहित मन्त्र

देवा इमं मधुना संयुतं यवं सरस्वत्यामधि मणावचर्कृषुः। इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन्मरुतः सुदानवः ॥


स्वर रहित पद पाठ

देवाः। इमम् । मधुना । सऽयुतम् । यवम् । सरस्वत्याम् । अधि । मणौ। अचर्कृषुः । इन्द्रः । आसीत् । सीरऽपतिः । शऽक्रतुः । कीनाशाः । आसन् । मरुतः । सुऽदानवः ॥३०.१॥