ऋषिः - भृगु
देवता - यमः, निर्ऋतिः
छन्दः - जगती
स्वरः - अरिष्टक्षयण सूक्त
यः । प्र॒थ॒मः । प्र॒ऽवत॑म् । आ॒ऽस॒साद॑ । ब॒हुऽभ्य॑ः । पन्था॑म् । अ॒नु॒ऽप॒स्प॒शा॒नः । यः । अ॒स्य । ईशे॑ । द्वि॒ऽपद॑ः । यः । चतु॑ःऽपदः । तस्मै॑ । य॒माय॑ । नम॑ः । अ॒स्तु॒ । मृ॒त्यवे॑ ॥२८.३॥
यः । प्रथमः । प्रऽवतम् । आऽससाद । बहुऽभ्यः । पन्थाम् । अनुऽपस्पशानः । यः । अस्य । ईशे । द्विऽपदः । यः । चतुःऽपदः । तस्मै । यमाय । नमः । अस्तु । मृत्यवे ॥२८.३॥