ऋषिः - भृगु

देवता - यमः, निर्ऋतिः

छन्दः - त्रिष्टुप्

स्वरः - अरिष्टक्षयण सूक्त

PreviousNext
स्वर सहित मन्त्र

शि॒वः क॒पोत॑ इषि॒तो नो॑ अस्त्वना॒गा दे॒वाः श॑कु॒नो गृ॒हं नः॑। अ॒ग्निर्हि विप्रो॑ जु॒षतां॑ ह॒विर्नः॒ परि॑ हे॒तिः प॒क्षिणी॑ नो वृणक्तु ॥

स्वर सहित पद पाठ

शि॒वः । क॒पोत॑ः । इ॒षि॒तः । न॒ः । अ॒स्तु॒ । अ॒ना॒गाः । दे॒वा॒ः । श॒कु॒नः । गृ॒हम् । न॒ः । अ॒ग्निः । हि। विप्र॑ः । जु॒षता॑म् । ह॒विः । न॒ः । परि॑ । हे॒तिः । प॒क्षिणी॑ । न॒ः । वृ॒ण॒क्तु॒ ॥२७.२॥


स्वर रहित मन्त्र

शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गृहं नः। अग्निर्हि विप्रो जुषतां हविर्नः परि हेतिः पक्षिणी नो वृणक्तु ॥


स्वर रहित पद पाठ

शिवः । कपोतः । इषितः । नः । अस्तु । अनागाः । देवाः । शकुनः । गृहम् । नः । अग्निः । हि। विप्रः । जुषताम् । हविः । नः । परि । हेतिः । पक्षिणी । नः । वृणक्तु ॥२७.२॥