ऋषिः - शुनः शेप

देवता - मन्याविनाशनम्

छन्दः - अनुष्टुप्

स्वरः - मन्याविनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

नव॑ च॒ या न॑व॒तिश्च॑ सं॒यन्ति॒ स्कन्ध्या॑ अ॒भि। इ॒तस्ताः सर्वा॑ नश्यन्तु वा॒का अ॑प॒चिता॑मिव ॥

स्वर सहित पद पाठ

नव॑ । च॒ । याः । न॒व॒तिः । च॒ । स॒म्ऽयन्ति॑ । स्कन्ध्या॑ः । अ॒भि । इ॒तः । ताः । सर्वा॑ः । न॒श्य॒न्तु॒ । वा॒काः । अ॒प॒चिता॑म्ऽइव ॥२५.३॥


स्वर रहित मन्त्र

नव च या नवतिश्च संयन्ति स्कन्ध्या अभि। इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥


स्वर रहित पद पाठ

नव । च । याः । नवतिः । च । सम्ऽयन्ति । स्कन्ध्याः । अभि । इतः । ताः । सर्वाः । नश्यन्तु । वाकाः । अपचिताम्ऽइव ॥२५.३॥