ऋषिः - शन्ताति

देवता - आपः

छन्दः - अनुष्टुप्

स्वरः - अपांभैषज्य सूक्त

PreviousNext
स्वर सहित मन्त्र

हि॒मव॑तः॒ प्र स्र॑वन्ति॒ सिन्धौ॑ समह सङ्ग॒मः। आपो॑ ह॒ मह्यं॒ तद्दे॒वीर्दद॑न्हृ॒द्द्योत॑भेष॒जम् ॥

स्वर सहित पद पाठ

हि॒मऽव॑तः । प्र । स्र॒व॒न्ति॒ । सिन्धौ॑ । स॒म॒ह॒ । स॒म्ऽग॒मः । आप॑ः । ह॒ । मह्य॑म्। तत्। दे॒वीः । दद॑न् । हृ॒द्द्यो॒त॒ऽभे॒ष॒जम् ॥२४.१॥


स्वर रहित मन्त्र

हिमवतः प्र स्रवन्ति सिन्धौ समह सङ्गमः। आपो ह मह्यं तद्देवीर्ददन्हृद्द्योतभेषजम् ॥


स्वर रहित पद पाठ

हिमऽवतः । प्र । स्रवन्ति । सिन्धौ । समह । सम्ऽगमः । आपः । ह । मह्यम्। तत्। देवीः । ददन् । हृद्द्योतऽभेषजम् ॥२४.१॥