ऋषिः - शन्ताति

देवता - आपः

छन्दः - अनुष्टुप्

स्वरः - अपांभैषज्य सूक्त

PreviousNext
स्वर सहित मन्त्र

स॒स्रुषी॒स्तद॒पसो॒ दिवा॒ नक्तं॑ च स॒स्रुषीः॑। वरे॑ण्यक्रतुर॒हम॒पो दे॒वीरुप॑ ह्वये ॥

स्वर सहित पद पाठ

स॒स्रुषी॑ः । तत् । अ॒पस॑ः । दिवा॑ । नक्त॑म्। च॒ । स॒स्रुषी॑ः । वरे॑ण्यऽक्रतु । अ॒हम् । अ॒पः । दे॒वीः । उप॑ । ह्व॒ये॒ ॥२३.१॥


स्वर रहित मन्त्र

सस्रुषीस्तदपसो दिवा नक्तं च सस्रुषीः। वरेण्यक्रतुरहमपो देवीरुप ह्वये ॥


स्वर रहित पद पाठ

सस्रुषीः । तत् । अपसः । दिवा । नक्तम्। च । सस्रुषीः । वरेण्यऽक्रतु । अहम् । अपः । देवीः । उप । ह्वये ॥२३.१॥