ऋषिः - शन्ताति

देवता - मरुद्गणः

छन्दः - चतुष्पदा भुरिग्जगती

स्वरः - भैषज्य सूक्त

PreviousNext
स्वर सहित मन्त्र

पय॑स्वतीः कृणुथा॒प ओष॑धीः शि॒वा यदेज॑था मरुतो रुक्मवक्षसः। ऊर्जं॑ च॒ तत्र॑ सुम॒तिं च॑ पिन्वत॒ यत्रा॑ नरो मरुतः सि॒ञ्चथा॒ मधु॑ ॥

स्वर सहित पद पाठ

पय॑स्वतीः । कृ॒णु॒थ॒ । अ॒पः । ओष॑धीः । शि॒वाः । यत् । एज॑थ । म॒रु॒त॒ः । रु॒क्म॒ऽव॒क्ष॒स॒ः । ऊर्ज॑म् । च॒ । तत्र॑ । सु॒ऽम॒तिम् । च॒ । पि॒न्व॒त॒ । यत्र॑ । न॒र॒ः । म॒रु॒त॒ः । सि॒ञ्चथ॑ । मधु॑॥२२.२॥


स्वर रहित मन्त्र

पयस्वतीः कृणुथाप ओषधीः शिवा यदेजथा मरुतो रुक्मवक्षसः। ऊर्जं च तत्र सुमतिं च पिन्वत यत्रा नरो मरुतः सिञ्चथा मधु ॥


स्वर रहित पद पाठ

पयस्वतीः । कृणुथ । अपः । ओषधीः । शिवाः । यत् । एजथ । मरुतः । रुक्मऽवक्षसः । ऊर्जम् । च । तत्र । सुऽमतिम् । च । पिन्वत । यत्र । नरः । मरुतः । सिञ्चथ । मधु॥२२.२॥