ऋषिः - शन्ताति

देवता - चन्द्रमाः

छन्दः - अनुष्टुप्

स्वरः - केशवर्धनी ओषधि सूक्त

PreviousNext
स्वर सहित मन्त्र

इ॒मा यास्ति॒स्रः पृ॑थि॒वीस्तासां॑ ह॒ भूमि॑रुत्त॒मा। तासा॒मधि॑ त्व॒चो अ॒हं भे॑ष॒जं समु॑ जग्रभम् ॥

स्वर सहित पद पाठ

इ॒माः । याः । ति॒स्रः । पृ॒थि॒वी। तासा॑म् । ह॒ । भूमि॑ः । उ॒त्ऽत॒मा । तासा॑म् । अधि॑ । त्व॒चः । अ॒हम्। भे॒ष॒जम् । सम्। ऊं॒ इति॑ । ज॒ग्र॒भ॒म् ॥२१.१॥


स्वर रहित मन्त्र

इमा यास्तिस्रः पृथिवीस्तासां ह भूमिरुत्तमा। तासामधि त्वचो अहं भेषजं समु जग्रभम् ॥


स्वर रहित पद पाठ

इमाः । याः । तिस्रः । पृथिवी। तासाम् । ह । भूमिः । उत्ऽतमा । तासाम् । अधि । त्वचः । अहम्। भेषजम् । सम्। ऊं इति । जग्रभम् ॥२१.१॥