ऋषिः - भृग्वङ्गिरा

देवता - यक्ष्मनाशनम्

छन्दः - ककुम्मती प्रस्तारपङ्क्तिः

स्वरः - यक्ष्मानाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

नमो॑ रु॒द्राय॒ नमो॑ अस्तु त॒क्मने॒ नमो॒ राज्ञे॒ वरु॑णाय॒ त्विषी॑मते। नमो॑ दि॒वे नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः ॥

स्वर सहित पद पाठ

नम॑ः । रु॒द्राय॑ । नम॑ः । अ॒स्तु॒ । त॒क्मने॑ । नम॑ः । राज्ञे॑ । वरु॑णाय । त्विषि॑ऽमते । नम॑ः । दि॒वे । नम॑ः । पृ॒थि॒व्यै । नम॑ः । ओष॑धीभ्यः ॥२०.२॥


स्वर रहित मन्त्र

नमो रुद्राय नमो अस्तु तक्मने नमो राज्ञे वरुणाय त्विषीमते। नमो दिवे नमः पृथिव्यै नम ओषधीभ्यः ॥


स्वर रहित पद पाठ

नमः । रुद्राय । नमः । अस्तु । तक्मने । नमः । राज्ञे । वरुणाय । त्विषिऽमते । नमः । दिवे । नमः । पृथिव्यै । नमः । ओषधीभ्यः ॥२०.२॥