ऋषिः - भृग्वङ्गिरा

देवता - यक्ष्मनाशनम्

छन्दः - अतिजगती

स्वरः - यक्ष्मानाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॒ग्नेरि॒वास्य॒ दह॑त एति शु॒ष्मिण॑ उ॒तेव॑ म॒त्तो वि॒लप॒न्नपा॑यति। अ॒न्यम॒स्मदि॑च्छतु॒ कं चि॑दव्र॒तस्तपु॑र्वधाय॒ नमो॑ अस्तु त॒क्मने॑ ॥

स्वर सहित पद पाठ

अ॒ग्नेःऽइ॑व । अ॒स्य॒ । दह॑तः । ए॒ति॒। शु॒ष्मिण॑ः । उ॒तऽइ॑व । म॒त्तः । वि॒ऽलप॑न् । अप॑ । अ॒य॒ति॒ । अ॒न्यम् । अ॒स्मत् । इ॒च्छ॒तु । कम् । चि॒त् । अ॒व्र॒तः । तपु॑ःऽवधाय । नम॑ः। अ॒स्तु॒ । त॒क्मने॑ ॥२०.१॥


स्वर रहित मन्त्र

अग्नेरिवास्य दहत एति शुष्मिण उतेव मत्तो विलपन्नपायति। अन्यमस्मदिच्छतु कं चिदव्रतस्तपुर्वधाय नमो अस्तु तक्मने ॥


स्वर रहित पद पाठ

अग्नेःऽइव । अस्य । दहतः । एति। शुष्मिणः । उतऽइव । मत्तः । विऽलपन् । अप । अयति । अन्यम् । अस्मत् । इच्छतु । कम् । चित् । अव्रतः । तपुःऽवधाय । नमः। अस्तु । तक्मने ॥२०.१॥