ऋषिः - उद्दालक

देवता - वनस्पतिः

छन्दः - अनुष्टुप्

स्वरः - शत्रुनिवारण सूक्त

PreviousNext
स्वर सहित मन्त्र

उ॑त्त॒मो अ॒स्योष॑धीनां॒ तव॑ वृ॒क्षा उ॑प॒स्तयः॑। उ॑प॒स्तिर॑स्तु॒ सो॒स्माकं॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥

स्वर सहित पद पाठ

उ॒त्ऽत॒मः । अ॒सि॒ । ओष॑धीनाम् । तव॑ । वृ॒क्षाः । उ॒प॒ऽस्तय॑ः । उ॒प॒ऽस्तिः । अ॒स्तु॒ । सः । अ॒स्माक॑म् । यः । अ॒स्मान् । अ॒भि॒ऽदास॑ति ॥१५.१॥


स्वर रहित मन्त्र

उत्तमो अस्योषधीनां तव वृक्षा उपस्तयः। उपस्तिरस्तु सोस्माकं यो अस्माँ अभिदासति ॥


स्वर रहित पद पाठ

उत्ऽतमः । असि । ओषधीनाम् । तव । वृक्षाः । उपऽस्तयः । उपऽस्तिः । अस्तु । सः । अस्माकम् । यः । अस्मान् । अभिऽदासति ॥१५.१॥