atharvaveda/6/140/2

व्री॒हिम॑त्तं॒ यव॑मत्त॒मथो॒ माष॒मथो॒ तिल॑म्। ए॒ष वां॑ भा॒गो निहि॑तो रत्न॒धेया॑य दन्तौ॒ मा हिं॑सिष्टं पि॒तरं॑ मा॒तरं॑ च ॥

व्री॒हिम् । अ॒त्त॒म् । यव॑म् । अ॒त्त॒म् । अथो॒ इति॑ । माष॑म् । अथो॒ इति॑ । तिल॑म् । ए॒ष: । वा॒म् । भा॒ग: । निऽहि॑त: । र॒त्न॒ऽधेया॑य । द॒न्तौ॒ । मा । हिं॒सि॒ष्ट॒म् । पि॒तर॑म्। मा॒तर॑म् । च॒ ॥१४०.२॥

ऋषिः - अथर्वा

देवता - ब्रह्मणस्पतिः

छन्दः - उपरिष्टाज्ज्योतिष्मती त्रिष्टुप्

स्वरः - सुमङ्गलदन्त सूक्त

स्वर सहित मन्त्र

व्री॒हिम॑त्तं॒ यव॑मत्त॒मथो॒ माष॒मथो॒ तिल॑म्। ए॒ष वां॑ भा॒गो निहि॑तो रत्न॒धेया॑य दन्तौ॒ मा हिं॑सिष्टं पि॒तरं॑ मा॒तरं॑ च ॥

स्वर सहित पद पाठ

व्री॒हिम् । अ॒त्त॒म् । यव॑म् । अ॒त्त॒म् । अथो॒ इति॑ । माष॑म् । अथो॒ इति॑ । तिल॑म् । ए॒ष: । वा॒म् । भा॒ग: । निऽहि॑त: । र॒त्न॒ऽधेया॑य । द॒न्तौ॒ । मा । हिं॒सि॒ष्ट॒म् । पि॒तर॑म्। मा॒तर॑म् । च॒ ॥१४०.२॥


स्वर रहित मन्त्र

व्रीहिमत्तं यवमत्तमथो माषमथो तिलम्। एष वां भागो निहितो रत्नधेयाय दन्तौ मा हिंसिष्टं पितरं मातरं च ॥


स्वर रहित पद पाठ

व्रीहिम् । अत्तम् । यवम् । अत्तम् । अथो इति । माषम् । अथो इति । तिलम् । एष: । वाम् । भाग: । निऽहित: । रत्नऽधेयाय । दन्तौ । मा । हिंसिष्टम् । पितरम्। मातरम् । च ॥१४०.२॥