ऋषिः - बभ्रुपिङ्गल

देवता - बलासः

छन्दः - अनुष्टुप्

स्वरः - बलासनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

निर्बला॑से॒तः प्र प॑ताशु॒ङ्गः शि॑शु॒को य॑था। अथो॒ इट॑ इव हाय॒नोऽप॑ द्रा॒ह्यवी॑रहा ॥

स्वर सहित पद पाठ

निः । ब॒ला॒स॒ । इ॒तः । प्र । प॒त॒ । आ॒शुं॒गः । शि॒शु॒कः । य॒था॒ । अथो॒ इति॑ । इट॑ःऽइव । हा॒य॒नः । अप॑ । द्रा॒हि॒ । अवी॑रऽहा ॥१४.३॥


स्वर रहित मन्त्र

निर्बलासेतः प्र पताशुङ्गः शिशुको यथा। अथो इट इव हायनोऽप द्राह्यवीरहा ॥


स्वर रहित पद पाठ

निः । बलास । इतः । प्र । पत । आशुंगः । शिशुकः । यथा । अथो इति । इटःऽइव । हायनः । अप । द्राहि । अवीरऽहा ॥१४.३॥