ऋषिः - वीतहव्य

देवता - नितत्नीवनस्पतिः

छन्दः - अनुष्टुप्

स्वरः - केशदृंहण सूक्त

PreviousNext
स्वर सहित मन्त्र

यस्ते॒ केशो॑ऽव॒पद्य॑ते॒ समू॑लो॒ यश्च॑ वृ॒श्चते॑। इ॒दं तं वि॒श्वभे॑षज्या॒भि षि॑ञ्चामि वी॒रुधा॑ ॥

स्वर सहित पद पाठ

यः । ते॒ । केश॑ः । अ॒व॒ऽपद्य॑ते । सऽमू॑लः । यः । च॒ । वृ॒श्चते॑ । इ॒दम् । तम् । वि॒श्वऽभे॑षज्या । अ॒भि । सि॒ञ्चा॒मि॒ । वी॒रुधा॑ ॥१३६.३॥


स्वर रहित मन्त्र

यस्ते केशोऽवपद्यते समूलो यश्च वृश्चते। इदं तं विश्वभेषज्याभि षिञ्चामि वीरुधा ॥


स्वर रहित पद पाठ

यः । ते । केशः । अवऽपद्यते । सऽमूलः । यः । च । वृश्चते । इदम् । तम् । विश्वऽभेषज्या । अभि । सिञ्चामि । वीरुधा ॥१३६.३॥