ऋषिः - अगस्त्य
देवता - मेखला
छन्दः - जगती
स्वरः - मेखलाबन्धन सूक्त
श्र॒ध्दाया॑ः । दु॒हि॒ता । तप॑सः । अधि॑ । जा॒ता । स्वसा॑ । ऋषी॑णाम् । भू॒त॒ऽकृता॑म् । ब॒भूव॑ । सा । न॒ः । मे॒ख॒ले॒। म॒तिम् । आ । धे॒हि॒ । मे॒धाम् । अथो॒ इति॑ । न॒ः । धे॒हि॒ । तप॑ः । इ॒न्द्रि॒यम् । च॒ ॥१३३.४॥
श्रध्दायाः । दुहिता । तपसः । अधि । जाता । स्वसा । ऋषीणाम् । भूतऽकृताम् । बभूव । सा । नः । मेखले। मतिम् । आ । धेहि । मेधाम् । अथो इति । नः । धेहि । तपः । इन्द्रियम् । च ॥१३३.४॥