ऋषिः - अथर्वा

देवता - मृत्युः

छन्दः - अनुष्टुप्

स्वरः - मृत्युञ्जय सूक्त

PreviousNext
स्वर सहित मन्त्र

नम॑स्ते यातु॒धाने॑भ्यो॒ नम॑स्ते भेष॒जेभ्यः॑। नम॑स्ते मृत्यो॒ मूले॑भ्यो ब्राह्म॒णेभ्य॑ इ॒दं नमः॑ ॥

स्वर सहित पद पाठ

नम॑ः । ते॒ । या॒तु॒ऽधाने॑भ्यः । नम॑ः । ते॒ । भे॒ष॒जेभ्य॑ः । नम॑ः । ते॒ । मृ॒त्यो॒ इति॑ । मूले॑भ्यः । ब्रा॒ह्म॒णेभ्य॑ः । इ॒दम् । नम॑ः ॥१३.३॥


स्वर रहित मन्त्र

नमस्ते यातुधानेभ्यो नमस्ते भेषजेभ्यः। नमस्ते मृत्यो मूलेभ्यो ब्राह्मणेभ्य इदं नमः ॥


स्वर रहित पद पाठ

नमः । ते । यातुऽधानेभ्यः । नमः । ते । भेषजेभ्यः । नमः । ते । मृत्यो इति । मूलेभ्यः । ब्राह्मणेभ्यः । इदम् । नमः ॥१३.३॥