ऋषिः - अथर्वा

देवता - मृत्युः

छन्दः - अनुष्टुप्

स्वरः - मृत्युञ्जय सूक्त

PreviousNext
स्वर सहित मन्त्र

नमो॑ देवव॒धेभ्यो॒ नमो॑ राजव॒धेभ्यः॑। अथो॒ ये विश्या॑नां व॒धास्तेभ्यो॑ मृत्यो॒ नमो॑ऽस्तु ते ॥

स्वर सहित पद पाठ

नम॑ः । दे॒व॒ऽव॒धेभ्य॑ः । नम॑ः । रा॒ज॒ऽव॒धेभ्य॑ः । अथो॒ इति॑ । ये । विश्या॑नाम् । व॒धाः । तेभ्य॑ः । मृ॒त्यो॒ इति॑ । नम॑ः । अ॒स्तु॒ । ते॒ ॥१३.१॥


स्वर रहित मन्त्र

नमो देववधेभ्यो नमो राजवधेभ्यः। अथो ये विश्यानां वधास्तेभ्यो मृत्यो नमोऽस्तु ते ॥


स्वर रहित पद पाठ

नमः । देवऽवधेभ्यः । नमः । राजऽवधेभ्यः । अथो इति । ये । विश्यानाम् । वधाः । तेभ्यः । मृत्यो इति । नमः । अस्तु । ते ॥१३.१॥